Brought to you by the Phineas Parkhurst Quimby Philosophical Society
More coming on a regular basis, including more sound.
प्रथमः समाधिपादः ।
prathamaḥ samādhipādaḥ .
1.1 अथ योगानुशासनमः ॥ १॥
1.2 योगश्चित्तवृत्तिनिरोधः ॥ २॥
1.3 तदा द्रष्टुः स्वरूपेऽवस्थानमः ॥ ३॥
tadā draṣṭuḥ
svarūpe'vasthānamaḥ
1.4 वृत्तिसारूप्यमः इतरत्र ॥ ४॥
vṛttisārūpyamaḥ itaratra
1.5 वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥ ५॥
1.6 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६॥
pramāṇaviparyayavikalpanidrāsmṛtayaḥ
1.7 प्रत्यक्शानुमानागमाः प्रमाणानि ॥ ७॥
pratyakśānumānāgamāḥ pramāṇāni
1.8 विपर्ययो मिथ्याज्ञानमः अतद्रूपप्रतिष्ठमः ॥ ८॥
viparyayo mithyājñānamḥ atadrūpapratiṣṭhamḥ
1.9 शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९॥
śabdajñānānupātī vastuśūnyo vikalpaḥ
1.10 अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १०॥
abhāvapratyayālambanā vṛttirnidrā
1.11 अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११॥
anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ